Pages

Kanaka Dhaaraa Stotram in Sanskrit

Kanaka Dhaaraa Stotram – Sanskrit Lyrics (Text)

Kanaka Dhaaraa Stotram – Sanskrit Script

रचन: आदि शङ्कराचार्य

वन्दे वन्दारु मन्दार मिन्दि रानन्द कन्दलं
अमन्दानन्द सन्दोह बन्धुरं सिन्धुराननम्

अङ्गं हरेः पुलक भूषण माश्रयन्ती
बृङ्गाङ्गनेव मुकुलाभरणं तमालम् ।
अङ्गीकृताखिल विभूति रपाङ्गलीला
माङ्गल्यदास्तु मम मङ्गल देवतायाः ॥ 1 ॥

मुग्दा मुहुर्विदधती वदने मुरारेः
प्रेमत्रपा प्रणिहितानि गतागतानि ।
मालादृशो र्मधुकरीव महोत्पले या
सा मे श्रियं दिशतु सागर सम्भावा याः ॥ 2 ॥

विश्वामरेन्द्र पद विभ्रम दानदक्ष
मानन्द हेतु रधिकं मुरविद्विषोपि ।
ईषन्निषीदतु मयि क्षण मीक्षणार्थं
इन्दीवरोदर सहोदर मिन्दिया याः ॥ 3 ॥

आमीलिताक्ष मधिग्यम मुदा मुकुन्द
मानन्द कन्द मनिषेष मनङ्ग नेत्रम् ।
अकेकर स्थित कनीनिक पद्मनेत्रं
भूत्यै भवन्मम भुजङ्ग शयाङ्गना याः ॥ 4 ॥

बाह्वन्तरे मधुजितः श्रितकौस्तुभे या
हारावलीव हरिनीलमयी विभाति ।
कामप्रदा भगवतो‌உपि कटाक्षमाला
कल्याण मावहतु मे कमलालया याः ॥ 5 ॥

कालाम्बुदालि ललितोरसि कैटभारेः
दाराधरे स्फुरति या तटिदङ्ग नेव ।
मातस्समस्त जगतां महनीयमूर्तिः
भद्राणि मे दिशतु भार्गव नन्दना याः ॥ 6 ॥

प्राप्तं पदं प्रथमतः खलु यत्प्रभावात्
माङ्गल्य भाजि मधुमाथिनि मन्मथेन ।
मय्यपते त्तदिह मन्थर मीक्षणार्थं
मन्दालसं च मकरालय कन्यका याः ॥ 7 ॥

दद्याद्दयानु पवनो द्रविणाम्बु धारा
मस्मिन्न किञ्चन विहङ्ग शिशौ विषण्णे ।
दुष्मर्म घर्म मपनीय चिराय दूरं
नारायण प्रणयिनी नयनाम्बु वाहः ॥ 8 ॥

इष्टा विशिष्ट मतयोपि यया दयार्द्र
दृष्ट्या त्रिविष्ट पपदं सुलभं लभन्ते ।
दृष्टिः प्रहृष्ट कमलोदर दीप्ति रिष्टां
पुष्टि कृषीष्ट मम पुष्कर विष्टरा याः ॥ 9 ॥

गीर्धव तेति गरुडद्वज सुन्दरीति
शाकम्भरीति शशशेखर वल्लभेति ।
सृष्टि स्थिति प्रलय केलिषु संस्थितायै
तस्यै नम स्त्रिभुवनैक गुरो स्तरुण्यै ॥ 10 ॥

श्रुत्यै नमो‌உस्तु शुभकर्म फलप्रशूत्ये
रत्यै नमो‌உस्तु रमणीय गुणार्णवायै ।
शक्त्यै नमो‌உस्तु शतपत्र निकेतनायै
पुष्ट्यै नमो‌உस्तु पुरुषोत्तम वल्लभायै ॥ 11 ॥

नमो‌உस्तु नालीक निभाननायै
नमो‌உस्तु दुग्दोदधि जन्मभूम्यै ।
नमो‌உस्तु सोमामृत सोदरायै
नमो‌உस्तु नारायण वल्लभायै ॥ 12 ॥

नमो‌உस्तु हेमाम्बुज पीठिकायै
नमो‌உस्तु भूमण्डल नायिकायै ।
नमो‌உस्तु देवादि दया परायै
नमो‌உस्तु शारङ्गायुध वल्लभायै ॥ 13 ॥

नमो‌உस्तु कान्यै कमलेक्षणायै
नमो‌உस्तु भूत्यै भुवन प्रसूत्यै ।
नमो‌உस्तु देवादिभि रर्चितायै
नमो‌உस्तु नन्दात्मज वल्लभायै ॥ 14 ॥

सम्पत्कराणि सकलेन्द्रिय नन्दनानि
साम्राज्य दान निरतानि सरोरुहाक्षि ।
त्वद्वन्दनानि दुरिताहरणोद्यतानि
मामेव मातरनिशं कलयन्तु मान्ये ॥ 15 ॥

यत्कटाक्ष समुपासना विधिः
सेवकस्य सकलर्थ सम्पदः ।
सन्तनोति वचनाङ्ग मानसैः
त्वां मुरारि हृदयेश्वरीं भजे ॥ 16 ॥

सरसिजनिलये सरोजहस्ते
दवल तमांशुक गन्धमाल्य शोभे ।
भगवति हरिवल्लभे मनोज्ञे
त्रिभुवन भूतिकरी प्रसीद मह्यम् ॥ 17 ॥

दिग्घस्तभिः कनक कुम्भमुखाव सृष्ट
स्वर्वाहिनी विमलचारु जल प्लुताङ्गीम् ।
प्रातर्नमामि जगतां जननी मशेष
लोकधिनाथ गृहिणी ममृताब्दि पुत्रीम् ॥ 18 ॥

कमले कमलाक्ष वल्लभे त्वं
करुणापूर तरङ्गितै रपाङ्गैः ।
अवलोकय मा मकिञ्चनानं
प्रथमं पात्र मकृतिमं दयायाः ॥ 19 ॥

स्तुवन्ति ये स्तुतिभि रमूभि रन्वहं
त्रयीमयीं त्रिभुवन मातरं रमाम् ।
गुणाधिका गुरुतुर भाग्य भाजिनो
भवन्ति ते भुवि बुध भाविताशयाः ॥ 20 ॥

सुवर्णधारा स्तोत्रं यच्छङ्कराचार्य निर्मितं त्रिसन्ध्यं यः पठेन्नित्यं स कुबेर समो भवेत्

No comments:

Post a Comment

Note: Only a member of this blog may post a comment.