Pages

Devi Mahatmyam Durga Saptasati Chapter 5 in Sanskrit

Devi Mahatmyam Durga Saptasati Chapter 5 – Sanskrit Lyrics (Text)

Devi Mahatmyam Durga Saptasati Chapter 5 – Sanskrit Script

रचन: ऋषि मार्कण्डेय

देव्या दूत संवादो नाम पञ्चमो ध्यायः ॥

अस्य श्री उत्तरचरित्रस्य रुद्र ऋषिः । श्री महासरस्वती देवता । अनुष्टुप्छन्धः ।भीमा शक्तिः । भ्रामरी बीजम् । सूर्यस्तत्वम् । सामवेदः । स्वरूपम् । श्री महासरस्वतिप्रीत्यर्थे । उत्तरचरित्रपाठे विनियोगः ॥

ध्यानं
घण्टाशूलहलानि शङ्ख मुसले चक्रं धनुः सायकं
हस्ताब्जैर्धदतीं घनान्तविलसच्छीतांशुतुल्यप्रभां
गौरी देह समुद्भवां त्रिजगताम् आधारभूतां महा
पूर्वामत्र सरस्वती मनुभजे शुम्भादिदैत्यार्दिनीं॥

॥ऋषिरुवाच॥ ॥ 1 ॥

पुरा शुम्भनिशुम्भाभ्यामसुराभ्यां शचीपतेः
त्रैलोक्यं यज्ञ्य भागाश्च हृता मदबलाश्रयात् ॥2॥

तावेव सूर्यताम् तद्वदधिकारं तथैन्दवं
कौबेरमथ याम्यं चक्रान्ते वरुणस्य च
तावेव पवनर्द्धि‌உं च चक्रतुर्वह्नि कर्मच
ततो देवा विनिर्धूता भ्रष्टराज्याः पराजिताः ॥3॥

हृताधिकारास्त्रिदशास्ताभ्यां सर्वे निराकृता।
महासुराभ्यां तां देवीं संस्मरन्त्यपराजितां ॥4॥

तयास्माकं वरो दत्तो यधापत्सु स्मृताखिलाः।
भवतां नाशयिष्यामि तत्क्षणात्परमापदः ॥5॥

इतिकृत्वा मतिं देवा हिमवन्तं नगेश्वरं।
जग्मुस्तत्र ततो देवीं विष्णुमायां प्रतुष्टुवुः ॥6॥

देवा ऊचुः

नमो देव्यै महादेव्यै शिवायै सततं नमः।
नमः प्रकृत्यै भद्रायै नियताः प्रणताः स्मतां ॥6॥

रौद्राय नमो नित्यायै गौर्यै धात्र्यै नमो नमः
ज्योत्स्नायै चेन्दुरूपिण्यै सुखायै सततं नमः ॥8॥

कल्याण्यै प्रणता वृद्ध्यै सिद्ध्यै कुर्मो नमो नमः।
नैरृत्यै भूभृतां लक्ष्मै शर्वाण्यै ते नमो नमः ॥9॥

दुर्गायै दुर्गपारायै सारायै सर्वकारिण्यै
ख्यात्यै तथैव कृष्णायै धूम्रायै सततं नमः ॥10॥

अतिसौम्यतिरौद्रायै नतास्तस्यै नमो नमः
नमो जगत्प्रतिष्ठायै देव्यै कृत्यै नमो नमः ॥11॥

यादेवी सर्वभूतेषू विष्णुमायेति शब्धिता।
नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ॥12

यादेवी सर्वभूतेषू चेतनेत्यभिधीयते।
नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ॥13॥

यादेवी सर्वभूतेषू बुद्धिरूपेण संस्थिता।
नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ॥14॥

यादेवी सर्वभूतेषू निद्रारूपेण संस्थिता।
नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ॥15॥

यादेवी सर्वभूतेषू क्षुधारूपेण संस्थिता
नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ॥16॥

यादेवी सर्वभूतेषू छायारूपेण संस्थिता
नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ॥17॥

यादेवी सर्वभूतेषू शक्तिरूपेण संस्थिता
नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ॥18॥

यादेवी सर्वभूतेषू तृष्णारूपेण संस्थिता
नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ॥19॥

यादेवी सर्वभूतेषू क्षान्तिरूपेण संस्थिता
नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ॥20॥

यादेवी सर्वभूतेषू जातिरूपेण संस्थिता
नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ॥21॥

यादेवी सर्वभूतेषू लज्जारूपेण संस्थिता
नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ॥22॥

यादेवी सर्वभूतेषू शान्तिरूपेण संस्थिता
नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ॥23॥

यादेवी सर्वभूतेषू श्रद्धारूपेण संस्थिता
नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ॥24॥

यादेवी सर्वभूतेषू कान्तिरूपेण संस्थिता
नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ॥25॥

यादेवी सर्वभूतेषू लक्ष्मीरूपेण संस्थिता
नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ॥26॥

यादेवी सर्वभूतेषू वृत्तिरूपेण संस्थिता
नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ॥27॥

यादेवी सर्वभूतेषू स्मृतिरूपेण संस्थिता
नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ॥28॥

यादेवी सर्वभूतेषू दयारूपेण संस्थिता
नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ॥29॥

यादेवी सर्वभूतेषू तुष्टिरूपेण संस्थिता
नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ॥30॥

यादेवी सर्वभूतेषू मातृरूपेण संस्थिता
नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ॥31॥

यादेवी सर्वभूतेषू भ्रान्तिरूपेण संस्थिता
नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ॥32॥

इन्द्रियाणामधिष्ठात्री भूतानां चाखिलेषु या।
भूतेषु सततं तस्यै व्याप्ति देव्यै नमो नमः ॥33॥

चितिरूपेण या कृत्स्नमेत द्व्याप्य स्थिता जगत्
नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ॥34॥

स्तुतासुरैः पूर्वमभीष्ट संश्रयात्तथा
सुरेन्द्रेण दिनेषुसेविता।
करोतुसा नः शुभहेतुरीश्वरी
शुभानि भद्राण्य भिहन्तु चापदः ॥35॥

या साम्प्रतं चोद्धतदैत्यतापितै
रस्माभिरीशाचसुरैर्नमश्यते।
याच स्मता तत्‍क्षण मेव हन्ति नः
सर्वा पदोभक्तिविनम्रमूर्तिभिः ॥36॥

ऋषिरुवाच॥

एवं स्तवाभि युक्तानां देवानां तत्र पार्वती।
स्नातुमभ्याययौ तोये जाह्नव्या नृपनन्दन ॥37॥

साब्रवीत्तान् सुरान् सुभ्रूर्भवद्भिः स्तूयते‌உत्र का
शरीरकोशतश्चास्याः समुद्भूता‌உ ब्रवीच्छिवा ॥38॥

स्तोत्रं ममैतत्क्रियते शुम्भदैत्य निराकृतैः
देवैः समेतैः समरे निशुम्भेन पराजितैः ॥39॥

शरीरकोशाद्यत्तस्याः पार्वत्या निःसृताम्बिका।
कौशिकीति समस्तेषु ततो लोकेषु गीयते ॥40॥

तस्यांविनिर्गतायां तु कृष्णाभूत्सापि पार्वती।
कालिकेति समाख्याता हिमाचलकृताश्रया ॥41॥

ततो‌உम्बिकां परं रूपं बिभ्राणां सुमनोहरम् ।
ददर्श चण्दो मुण्दश्च भृत्यौ शुम्भनिशुम्भयोः ॥42॥

ताभ्यां शुम्भाय चाख्याता सातीव सुमनोहरा।
काप्यास्ते स्त्री महाराज भास यन्ती हिमाचलम् ॥43॥

नैव तादृक् क्वचिद्रूपं दृष्टं केनचिदुत्तमम्।
ज्ञायतां काप्यसौ देवी गृह्यतां चासुरेश्वर ॥44॥

स्त्री रत्न मतिचार्वञ्ज्गी द्योतयन्तीदिशस्त्विषा।
सातुतिष्टति दैत्येन्द्र तां भवान् द्रष्टु मर्हति ॥45॥

यानि रत्नानि मणयो गजाश्वादीनि वै प्रभो।
त्रै लोक्येतु समस्तानि साम्प्रतं भान्तिते गृहे ॥46॥

ऐरावतः समानीतो गजरत्नं पुनर्दरात्।
पारिजात तरुश्चायं तथैवोच्चैः श्रवा हयः ॥47॥

विमानं हंससंयुक्तमेतत्तिष्ठति ते‌உङ्गणे।
रत्नभूत मिहानीतं यदासीद्वेधसो‌உद्भुतं ॥48॥

निधिरेष महा पद्मः समानीतो धनेश्वरात्।
किञ्जल्किनीं ददौ चाब्धिर्मालामम्लानपज्कजां ॥49॥

छत्रं तेवारुणं गेहे काञ्चनस्रावि तिष्ठति।
तथायं स्यन्दनवरो यः पुरासीत्प्रजापतेः ॥50॥

मृत्योरुत्क्रान्तिदा नाम शक्तिरीश त्वया हृता।
पाशः सलिल राजस्य भ्रातुस्तव परिग्रहे ॥51॥

निशुम्भस्याब्धिजाताश्च समस्ता रत्न जातयः।
वह्निश्चापि ददौ तुभ्य मग्निशौचे च वाससी ॥52॥

एवं दैत्येन्द्र रत्नानि समस्तान्याहृतानि ते
स्त्र्री रत्न मेषा कल्याणी त्वया कस्मान्न गृह्यते ॥53॥

ऋषिरुवाच।

निशम्येति वचः शुम्भः स तदा चण्डमुण्डयोः।
प्रेषयामास सुग्रीवं दूतं देव्या महासुरं ॥54॥

इति चेति च वक्तव्या सा गत्वा वचनान्मम।
यथा चाभ्येति सम्प्रीत्या तथा कार्यं त्वया लघु ॥55॥

सतत्र गत्वा यत्रास्ते शैलोद्दोशे‌உतिशोभने।
सादेवी तां ततः प्राह श्लक्ष्णं मधुरया गिरा ॥56॥

दूत उवाच॥

देवि दैत्येश्वरः शुम्भस्त्रेलोक्ये परमेश्वरः।
दूतो‌உहं प्रेषि तस्तेन त्वत्सकाशमिहागतः ॥57॥

अव्याहताज्ञः सर्वासु यः सदा देवयोनिषु।
निर्जिताखिल दैत्यारिः स यदाह शृणुष्व तत् ॥58॥

ममत्रैलोक्य मखिलं ममदेवा वशानुगाः।
यज्ञभागानहं सर्वानुपाश्नामि पृथक् पृथक् ॥59॥

त्रैलोक्येवररत्नानि मम वश्यान्यशेषतः।
तथैव गजरत्नं च हृतं देवेन्द्रवाहनं ॥60॥

क्षीरोदमथनोद्भूत मश्वरत्नं ममामरैः।
उच्चैःश्रवससञ्ज्ञं तत्प्रणिपत्य समर्पितं ॥61॥

यानिचान्यानि देवेषु गन्धर्वेषूरगेषु च ।
रत्नभूतानि भूतानि तानि मय्येव शोभने ॥62॥

स्त्री रत्नभूतां तां देवीं लोके मन्या महे वयं।
सा त्वमस्मानुपागच्छ यतो रत्नभुजो वयं ॥63॥

मांवा ममानुजं वापि निशुम्भमुरुविक्रमम्।
भजत्वं चञ्चलापाज्गि रत्न भूतासि वै यतः ॥64॥

परमैश्वर्य मतुलं प्राप्स्यसे मत्परिग्रहात्।
एतद्भुद्थ्या समालोच्य मत्परिग्रहतां व्रज ॥65॥

ऋषिरुवाच॥

इत्युक्ता सा तदा देवी गम्भीरान्तःस्मिता जगौ।
दुर्गा भगवती भद्रा ययेदं धार्यते जगत् ॥66॥

देव्युवाच॥

सत्य मुक्तं त्वया नात्र मिथ्याकिञ्चित्त्वयोदितम्।
त्रैलोक्याधिपतिः शुम्भो निशुम्भश्चापि तादृशः ॥67॥

किं त्वत्र यत्प्रतिज्ञातं मिथ्या तत्क्रियते कथम्।
श्रूयतामल्पभुद्धित्वात् त्प्रतिज्ञा या कृता पुरा ॥68॥

योमाम् जयति सज्ग्रामे यो मे दर्पं व्यपोहति।
योमे प्रतिबलो लोके स मे भर्ता भविष्यति ॥69॥

तदागच्छतु शुम्भो‌உत्र निशुम्भो वा महासुरः।
मां जित्वा किं चिरेणात्र पाणिङ्गृह्णातुमेलघु ॥70॥

दूत उवाच॥

अवलिप्तासि मैवं त्वं देवि ब्रूहि ममाग्रतः।
त्रैलोक्येकः पुमांस्तिष्टेद् अग्रे शुम्भनिशुम्भयोः ॥71॥

अन्येषामपि दैत्यानां सर्वे देवा न वै युधि।
किं तिष्ठन्ति सुम्मुखे देवि पुनः स्त्री त्वमेकिका ॥72॥

इन्द्राद्याः सकला देवास्तस्थुर्येषां न संयुगे।
शुम्भादीनां कथं तेषां स्त्री प्रयास्यसि सम्मुखम् ॥73॥

सात्वं गच्छ मयैवोक्ता पार्श्वं शुम्भनिशुम्भयोः।
केशाकर्षण निर्धूत गौरवा मा गमिष्यसि॥74॥

देव्युवाच।

एवमेतद् बली शुम्भो निशुम्भश्चातिवीर्यवान्।
किं करोमि प्रतिज्ञा मे यदनालोचितापुरा ॥75॥

सत्वं गच्छ मयोक्तं ते यदेतत्त्सर्व मादृतः।
तदाचक्ष्वा सुरेन्द्राय स च युक्तं करोतु यत् ॥76॥

॥ इति श्री मार्कण्डेय पुराणे सावर्निके मन्वन्तरे देवि महत्म्ये देव्या दूत संवादो नाम पञ्चमो ध्यायः समाप्तम् ॥

आहुति
क्लीं जयन्ती साङ्गायै सायुधायै सशक्तिकायै सपरिवारायै सवाहनायै धूम्राक्ष्यै विष्णुमायादि चतुर्विंशद् देवताभ्यो महाहुतिं समर्पयामि नमः स्वाहा ॥

No comments:

Post a Comment

Note: Only a member of this blog may post a comment.